|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.78. अध्यायः 078
Mahabharata - Drona Parva - Chapter Topics
अभिमन्युमनुशोच्य विलपन्त्याः सुभद्रायाः कृष्णेनाश्वासनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-78-0x(4462)(47614)
एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः।
सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता॥ 7-78-1(47615)
हा पुत्रा मम मन्दायाः कथमेत्यासि संयुगम्।
निधनं प्राप्तवांस्तात पितुस्तुल्यपराक्रमः॥ 7-78-2(47616)
कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम्।
मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना॥ 7-78-3(47617)
नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम्।
सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं नतोदरम्॥ 7-78-4(47618)
चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम्।
भूतानि त्वां निरीक्षन्ते भूमौ चन्द्रमिवोदितम्॥ 7-78-5(47619)
शयनीयं पुराऽध्युष्य स्पर्ध्यास्तरणसंवृतम्।
भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः॥ 7-78-6(47620)
योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः।
कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे॥ 7-78-7(47621)
योऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः।
सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्येत॥ 7-78-8(47622)
पाण्डवेषु च नाथेषु वृष्णिवीरेषु वा विभो।
पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत्॥ 7-78-9(47623)
`यत्र त्वं केशवे नाथे सत्यनाथो यथा हतः'।
अतृप्तदर्शना पुत्र दर्शनस्य तवानघ।
मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम्॥ 7-78-10(47624)
विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च।
तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम्॥ 7-78-11(47625)
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम्।
धिग्वीर्यं वृष्णिवीराणां चाञ्चालानां च धिग्बलं॥ 7-78-12(47626)
धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान्।
ये त्वां रणगतं वीरं न शेकुरभिरक्षितुम्॥ 7-78-13(47627)
अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम्।
अभिमन्युमपश्यन्ती शोकव्याकुललोचना॥ 7-78-14(47628)
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डवीधन्वनः।
कथं त्वाऽतिरथं वीरं द्रक्ष्याम्यद्य निपातितम्॥ 7-78-15(47629)
एह्येहि तृषितो वत्स स्तनौ पूर्णौ पिबाशु मे।
अङ्कमारुह्य मन्दाया ह्यतृप्तायाश्च दर्शने॥ 7-78-16(47630)
हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे।
अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम्॥ 7-78-17(47631)
इमां ते तरुणीं भार्यां तवाधिभिरभिप्लुताम्।
`उत्तरामुत्तमां जात्या सुशीलां प्रिय भाषिणीम्॥ 7-78-18(47632)
शनकैः परिरभ्यैनां स्नुषां मम यशस्विनीम्।
सुकुमारीं विशालाक्षीं पूर्णचन्द्रनिभाननाम्॥ 7-78-19(47633)
बालपल्लवतन्वङ्गीं मत्तमातङ्गगामिनीम्।
बिम्बाधरोष्ठीमबलामभिमन्यो प्रहर्षय॥ 7-78-20(47634)
त्वया विना कथं पुत्र जीर्णां पतितमानसाम्'।
इमां सन्धारयिष्यामि वृषभादिव धेनुकाम्॥ 7-78-21(47635)
अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक।
विहाय फलकाले मां सुगृद्धां तव दर्शने॥ 7-78-22(47636)
नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा।
यत्र त्वं केशवे नाथे सङ्ग्रामेऽनाथवद्धतः॥ 7-78-23(47637)
यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम्।
चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम्॥ 7-78-24(47638)
कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि।
सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि॥ 7-78-25(47639)
या गतिर्युध्यमानानां शूराणामनिवर्तिनाम्।
हत्वारीन्निहतानां च सङ्ग्रामे तां गति व्रज॥ 7-78-26(47640)
गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः।
नैवेशिकं चाभिमतं ददतां या गतिः शुभा॥ 7-78-27(47641)
ब्राह्मणेभ्यः शरण्येभ्यो निधिं निदधतां च या।
या चापि न्यस्तदण्डानां तां गतिं व्रज पुत्रक॥ 7-78-28(47642)
ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः।
एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक॥ 7-78-29(47643)
राज्ञा सुचरितैर्या च गतिर्भवति शाश्वती।
चरमाश्रमिणां पुण्यैः सेवितानां पुरः स्थितैः॥ 7-78-30(47644)
दीनानुकम्पिनां या च सततं संविभागिनाम्।
पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक॥ 7-78-31(47645)
व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि।
अमोघातिथिनां या च तां गतिं व्रज पुत्रक॥ 7-78-32(47646)
कृच्छ्रेषु या धारयतामात्मानं व्यसनेषु च।
गतिः शोकाग्निदग्धानां तां गतिं व्रज पुत्रक॥ 7-78-33(47647)
मातापित्रोश्च शुश्रूषां कल्पयन्तीह ये सदा।
स्वदारनिरतानां च या गतिस्तामवाप्नुहि॥ 7-78-34(47648)
ऋतुकाले स्वकां भार्यां गच्छतां या मनीषिणाम्।
परस्त्रीभ्यो निवृत्तानां तां गतिं व्रज पुत्रक॥ 7-78-35(47649)
साम्ना ये सर्वभूतानि पश्यन्ति गतमत्सराः।
नारुन्तुदानां क्षमिणां या गतिस्तामवाप्नुहि॥ 7-78-36(47650)
मधुमांसान्निवृत्तानां मदाद्दृम्भात्तथाऽनृतात्।
परोपतापादन्यायात्तां गतिं व्रज पुत्रक॥ 7-78-37(47651)
हीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः।
यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक॥ 7-78-38(47652)
सञ्जय उवाच। 7-78-39x(4463)
एवं विलपतीं दीनां सुभद्रां शोककर्शिताम्।
अन्वपद्यत पाञ्चाली वैराटिसहितां तदा॥ 7-78-39(47653)
सा प्रकामं रुदित्वा च विलप्य च सुदुःखिता।
उन्मत्तवत्तदा राजन्विसंज्ञा पतिता क्षितौ॥ 7-78-40(47654)
सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः।
सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः॥ 7-78-41(47655)
विसंज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम्।
भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत्॥ 7-78-42(47656)
सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम्।
गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुङ्गवः॥ 7-78-43(47657)
ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने।
सर्वे न ते गतिं यान्ति याऽभिमन्योर्यशस्विनः॥ 7-78-44(47658)
कुर्याम तद्वयं कर्म कुर्युर्युत्सुहृदश्च नः।
कृतवान्यादृगद्यैकस्तव पुत्रो महारथः॥ 7-78-45(47659)
सञ्जय उवाच। 7-78-46x(4464)
एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम्।
पार्थस्यैव महाबाहुः पार्श्वमागादरिन्दमः॥ 7-78-46(47660)
ततोऽभ्यनुज्ञाय नृपान्कृष्णो बन्धूंस्तथाऽर्जुनम्।
विवेशान्तः पुरे राजंस्ते च जग्मुः स्वमालयम्॥ ॥ 7-78-47(47661)
इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अष्टसप्ततितमोऽध्यायः॥ 78 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-78-27 नैवेशिकं सोपकरणं गृहम्। नैवेशिकायेति पाठे गृहाश्रमोन्मुखाय विद्याव्रतस्नाताय। अभिमतं विवाहोपयुक्तम्॥ 5-78-28 न्यस्तदण्डानां निरस्ताभिमानानाम्। दण्डो स्त्री लगुडे पुमानित्यु पक्रम्य दमे यमेऽबिमानेचेति मेदिनी॥ 5-78-29 एकपत्न्यः पतिव्रताः॥ 5-78-78 अष्टसप्ततितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|